ज्योतिषाचार्य पंडित विनोद चौबे

!!विशेष सूचना!!
नोट: इस ब्लाग में प्रकाशित कोई भी तथ्य, फोटो अथवा आलेख अथवा तोड़-मरोड़ कर कोई भी अंश हमारे बगैर अनुमति के प्रकाशित करना अथवा अपने नाम अथवा बेनामी तौर पर प्रकाशित करना दण्डनीय अपराध है। ऐसा पाये जाने पर कानूनी कार्यवाही करने को हमें बाध्य होना पड़ेगा। यदि कोई समाचार एजेन्सी, पत्र, पत्रिकाएं इस ब्लाग से कोई भी आलेख अपने समाचार पत्र में प्रकाशित करना चाहते हैं तो हमसे सम्पर्क कर अनुमती लेकर ही प्रकाशित करें।-ज्योतिषाचार्य पं. विनोद चौबे, सम्पादक ''ज्योतिष का सूर्य'' राष्ट्रीय मासिक पत्रिका,-भिलाई, दुर्ग (छ.ग.) मोबा.नं.09827198828
!!सदस्यता हेतु !!
.''ज्योतिष का सूर्य'' राष्ट्रीय मासिक पत्रिका के 'वार्षिक' सदस्यता हेतु संपूर्ण पता एवं उपरोक्त खाते में 220 रूपये 'Jyotish ka surya' के खाते में Oriental Bank of Commerce A/c No.14351131000227 जमाकर हमें सूचित करें।

ज्योतिष एवं वास्तु परामर्श हेतु संपर्क 09827198828 (निःशुल्क संपर्क न करें)

आप सभी प्रिय साथियों का स्नेह है..

रविवार, 20 नवंबर 2011

लक्ष्मीस्तोत्रम्.

लक्ष्मीस्तोत्रम्.

जय पद्मपलाशाक्षि जय त्वं श्रीपतिप्रिये ।
जय मातर्महालक्ष्मि संसारार्णवतारिणि ।।1।।
महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि
हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधे ।।2।।
पद्ममालये नमस्तुभ्यं नमस्तुभ्यं च सर्वदे ।
सर्वभूतहितार्थाय वसुवृष्टिं सदा कुरु ।।3।।
जगन्मातर्नमस्तुभ्यं नमस्तुभ्यं दयानिधे ।
दयावति नमस्तुभ्यं विश्वेश्वरि नमोऽस्तु ते ।। 4।।
नमः क्षीरार्णवसुते नमस्त्रैलोक्यधारिणी ।
वसुवृष्टे नमस्तुभ्यं रक्ष मां शरणागतम् ।।5।।
रक्ष त्वं देवदेवेशि देवदेवस्य वल्लभे ।
दरिद्रात्त्राहि मां लक्ष्मि कृपां कुरु ममोपरि ।।6।।
नमस्त्रैलोक्यजननि नमस्त्रैलोक्यपावनि ।
ब्रह्मादयो नमस्ते त्वां जगदानन्ददायिनी ।।7।।
विष्णुप्रिये नमस्तुभ्यं नमस्तुभ्यं जगद्धिते ।
आर्तिहन्त्रि नमस्तुभ्यं समृद्धि कुरु मे सदा ।। 8।।
अब्जवासे नमस्तुभ्यं चपलायै नमो नमः।
चंचलायै नमस्तुभ्यं ललितायै नमो नमः ।।9।।
नमः प्रद्युम्नजननि मातस्तुभ्यं नमो नमः।
परिपालय भो मातर्मा तुभ्यं शरणागतम्. ।।10।।
शरण्ये त्वां प्रपत्रोऽस्मि कमले कमलालये ।

त्राहि त्राहि महालक्ष्मि परित्राणपरायणे ।।11।।
पाण्डित्यं शोभते नैव न शोभन्ति गुणा नरे ।
शीलत्वं नैव शोभेत महालक्ष्मी त्वया विना ।।12।।
तावद्विराजते रुपं तावच्छीलं विराजते ।
तावद्रुणा नराणां च यावल्लक्ष्मीः प्रसीदति ।।13।।
लक्ष्मित्वयालंकृतमानवा ये पापैर्विमुक्ता नृपलोकमान्याः ।
गुणैर्विहीना गुणिनो भवन्ति दुःशीलिनः शीलवतां वरिष्ठाः ।।14।।
लक्ष्मीर्भूषयते रुपं लक्ष्मीर्भूषयते कुलम् ।
लक्ष्मीर्भूषयते विद्यां सर्वाल्लक्ष्मीर्विशिष्यते ।।15।।
लक्ष्मि त्वद्रुणकीर्तनेन कमलाभूर्यात्यलं जिह्मतां ।
रुद्राद्या रविचन्द्रदेवपतयो वक्तुं च नैव क्षमाः ।
अस्माभिस्तव रुपलक्षगुणान्वक्तुं कथं शक्यते ।
मातर्मा परिपाहि विश्वजननि कृत्वा ममेष्टं ध्रुवम् ।।16।।
दीनार्तिभीतं भवतापपीडितं धनैर्विहीनं तव पार्श्वमागतम् ।
कृपानिधित्वान्मम लक्ष्मि सत्वरं धनप्रदानाद्धननायकं कुरु ।।17।।
मां विलोक्य जननि हरिप्रिय निर्धनं तव समीपमागतम् ।
देहि में झटिति लक्ष्मि ।
कराग्रं वस्त्रकाञ्चनवरान्नमद् भुतम् ।।18।।
त्वमेव जननि लक्ष्मि पिता लक्ष्मी त्वमेव च ।।19।।
त्राहि त्रहि महालक्ष्मि त्राहि त्राहि सुरेश्वरी ।
त्राहि त्राहि जगन्मातर्दरिद्रात्त्राहि वेगतः ।।20।।
नमस्तुभ्यंजगद्धात्रि नमस्तुभ्यं नमो नमः ।
धर्माधारे नमस्तभ्यं नमः सम्पत्तिदायिनी ।।21।।
दरिद्रार्णवमग्नोऽहं निमग्नोऽहं रसातले ।
मज्जन्तं मां करे घृत्वा सूद्धर त्वं रमे द्रुतम् ।।22।।
किं लक्ष्मि बहुनोक्तेन जल्पितेन पुनः पुनः ।
अन्यन्मे शरणं नास्ति सत्यं सत्यं हरिप्रिय ।।23।।
एतच्छुत्वाऽगस्तिवाक्ययं हृष्यमाणा हरिप्रिया ।
उवाच मधुरां वाणी तुष्टाहं तव सर्वदा. ।।24।।

लक्ष्मीरुवाच ।

यत्त्वयोक्तमिदं स्तोत्रं यः पठिष्यति मानवः ।
श्रृणोति च महाभागस्तस्याहं वशवर्तिनी ।।25।।
नित्यं पठति यो भक्तया त्वलक्ष्मीस्तस्य नश्यति ।
रणश्रव नश्यते तीब्रं वियोगं नैव पश्यति ।।26।।
यः पठेत्प्रातरुत्थाय श्रद्धा-भक्तिसमन्वितः।
गृहे तस्य सदा स्थास्य नित्यं श्रीपतिना सह ।।27।।
सुखसौभाग्यसम्पन्नो मनस्वी बुद्धिमान् भवेत्.
पुत्रवान् गुणवान् श्रेष्ठो भोगभोक्ता च मानवः ।।28।।
इदं स्त्रोतं महापुण्यं लक्ष्म्यगस्तिप्रर्कीतितम् ।
विष्णुप्रसादजननं चतुर्वर्गफ़लप्रदम् ।।29।।
राजद्वारे जयश्रवैव शत्रोश्चैव पराजयः ।
भूतप्रेतपिचाशचानां व्याघ्राणां न भयं तथा ।।30।।
न शस्त्रानलतोयौघाद् भयं तस्य प्रजायते ।
दुर्वृत्तानां च पापानां बहुहानिकरं परम् ।।31।।
मदुराकरिशालासु गवां गोष्ठे समाहितः ।
पठेत्तद्दोषशान्त्यर्थ महापातकनाशनम् ।।32।।
सर्वसौख्यकरं नृणामायुरारोग्यदं तथा ।
अगस्त्रिमुनिना पोक्तं प्रजानां हितकाम्यया ।।33।।

। इत्यगस्तिविरचितं लक्ष्मीस्तोत्रं पूर्णम् ।

कोई टिप्पणी नहीं: